|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.238. अध्यायः 238
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति श्राद्धविधानादिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
पितृमेधः कथं देव तन्मे शंसितुमर्हसि।
सर्वेषां पितरः पूज्याः सर्वसम्पत्प्रदायिनः॥ 13-238-1(90808)
महेश्व उवाच। 13-238-2x(7650)
पितृमेधं प्रवक्ष्यामि यथावत्तन्मना शृणु।
देशकालौ विधानं च तत्क्रियायाः शुभाशुभम्॥ 13-238-2(90809)
लोकेषु पितरः पूज्या देवतानां च देवताः।
शुचयो निर्मलाः पुण्या दक्षिणां दिशमाश्रिताः॥ 13-238-3(90810)
यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः।
पितरश्च तथा लोके पितृमेधं शुभेक्षणे॥ 13-238-4(90811)
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती।
प्रभासं पुष्करं चेति तेषु दत्तं महाफलम्॥ 13-238-5(90812)
तीर्थानि सरितः पुण्या विविक्तानि वनानि च।
नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः॥ 13-238-6(90813)
माघप्रोष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ।
पक्षयोः कृष्णपक्षश्च पूर्वपक्षात्प्रशस्यते॥ 13-238-7(90814)
अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च।
तिथिष्वेतासु तुष्यन्ति दत्तेनेह पितामहाः॥ 13-238-8(90815)
पूर्वाह्णे शुक्लपक्षे च रात्रौ जन्मदिनेषु वा।
युग्मेष्वहस्सु च श्राद्धं न च कुर्वीत पण्डितः॥ 13-238-9(90816)
एष कालो मया प्रोक्तः पितृमेधस्य पूजितः।
यस्मिंश्च ब्राह्म्णं पात्रं पश्येत्कालः स च स्मृतः॥ 13-238-10(90817)
अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास्ते पङ्क्तिपावनाः।
भोजयेद्यदि पापिष्ठाञ्श्राद्धेषु नरकं व्रजेत्॥ 13-238-11(90818)
वृत्तश्रुतकुलोपेतान्सकलत्रान्गुणान्वितान्।
तदर्हाञ्श्रोत्रियान्विद्धि ब्राह्मणानयुजः शुभे॥ 13-238-12(90819)
एतान्निमन्त्रयोद्विद्वान्पूर्वेद्युः प्रातरेव वा।
तत्र श्राद्धक्रियां पश्चादारभेत यथाविधि॥ 13-238-13(90820)
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरा॥ 13-238-14(90821)
कुतपः खङ्गपात्रं च कुशा दर्भास्तिला मधु।
कालशाकं गजच्छाया पवित्रं श्राद्धकर्मसु॥ 13-238-15(90822)
तिलानवकिरेत्तत्र नानावर्णान्समन्ततः।
अशुद्धं पितृयज्ञश्च तिलैः शुध्यति शोभने॥ 13-238-16(90823)
नीलकाषायवस्त्रं च भिन्नवर्णं नवव्रणम्।
हीनाङ्गमशुचिं वाऽपि वर्जयेत्तत्र दूरतः॥ 13-238-17(90824)
कुक्कुटांश्च वराहांश्च नग्नं क्लीबं रजस्वलाम्।
आयसं त्रपुसीसं च श्राद्धकर्मणि वर्जयेत्॥ 13-238-18(90825)
मांसैः प्रीणन्ति पितरो मुद्गमाषयवैरिह।
शशरौरवमांसेन षण्मासं तृप्तिरिष्यते॥ 13-238-19(90826)
संवत्सरं च गव्येन हविषा पायसेन च।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी॥ 13-238-20(90827)
आनन्त्याय भवेद्दत्तं खङ्गमांसं पितृक्षये।
पायसं सतिलं क्षौद्रं खङ्गमांसेन सम्मितम्॥ 13-238-21(90828)
महाशकलिनो मस्याश्छागो वा सर्वलोहितः।
कालशाकमितीत्येव तदानन्त्याय कल्पितम्॥ 13-238-22(90829)
सापूपं सामिषं स्निग्धमाहारमुपकल्पयेत्।
उपकल्प्य तदाहारं ब्राह्मणानर्चयेत्ततः॥ 13-238-23(90830)
श्मश्रुकर्मशिरः स्नातान्समारोप्यासनं क्रमात्।
सुगन्धमाल्याभरणैः स्नग्भिरेतान्विभूषयेत्॥ 13-238-24(90831)
अलङ्कृत्योपविष्टांस्तान्पिण्डावापं निवेदयेत्॥ 13-238-25(90832)
ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखम्।
तत्समीपेऽग्निमिद्ध्वा च स्वधां च जुहुयात्ततः।
समीपे त्वग्नीषोमाभ्यां पितृभ्यो जुहुयात्तदा॥ 13-238-26(90833)
तथा दर्भेषु पिण्डांस्त्रीन्निर्वपेद्दक्षिणामुखः।
अपसव्यमपाङ्गुष्ठं नामधेयपुरस्कृतम्॥ 13-238-27(90834)
एतेन विधिना दत्तं पितॄणामक्षयं भवेत्।
ततो विप्रान्यथाशक्ति पूजयेन्नियतः शुचिः।
सदक्षिणं ससम्भारं यथा तुष्यन्ति ते द्विजाः॥ 13-238-28(90835)
यत्र तत्क्रियते तत्र न जल्पन्न जपेन्मिथः।
नियम्य वाच्यं देहं च श्राद्धकर्म समारभेत्॥ 13-238-29(90836)
ततो निर्वपने वृत्ते तान्पिण्डांस्तदनन्तरम्।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत्॥ 13-238-30(90837)
पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत्।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम्॥ 13-238-31(90838)
तृप्तानुत्थाप्य तान्विप्रानन्नशेषं निवेदयेत्।
तच्छेषं बहुभिः पश्चात्सभृत्यो भक्षयेन्नरः॥ 13-238-32(90839)
एष प्रोक्तः समासेन पितृयज्ञः सनातनः।
पितरस्तेन तुष्यन्ति कर्ता च फलमाप्नुयात्॥ 13-238-33(90840)
अहन्यहनि वा कुर्यान्मासेमासेऽथवा पुनः।
संवत्सरं द्विः कुर्याच्च चतुर्वाऽपि स्वशक्तितः॥ 13-238-34(90841)
दीर्घायुश्च भवेत्स्वस्थः पितृमेधेन वा पुनः।
सपुत्रो बहुभृत्यश्च प्रभूतधनधान्यवान्॥ 13-238-35(90842)
श्राद्धदः स्वर्गमाप्नोति निर्मलं विविधात्मकम्।
अप्सरोगणसंघुष्टं विरजस्कमनन्तरम्॥ 13-238-36(90843)
श्राद्धानि पुष्टिकामा वै ये प्रकुर्वन्ति पण्डिताः।
तेषां पुष्टिं प्रजां चैव दास्यन्ति पितरः सदा॥ 13-238-37(90844)
धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुविनाशनम्।
कुलसन्धारकं चेति श्राद्धमाहुर्मनीषिणः॥ 13-238-38(90845)
उमोवाच। 13-238-39x(7651)
भगवन्देवदेवेश मृतास्ते भुवि जन्तवः।
नानाजातिषु जायन्ते शीघ्रं कर्मवशात्पुनः॥ 13-238-39(90846)
पितरः स्वस्ति ते तत्र कथं तिष्ठन्ति देववत्।
पितॄणां कतमो देशः पिण्डानश्नन्ति वै कथम्॥ 13-238-40(90847)
अन्ने दत्ते मृतानां तु कथमाप्यायनं भवेत्।
एवं मया संशयितं भगवन्वक्तुमर्हसि॥ 13-238-41(90848)
नारद उवाच। 13-238-42x(7652)
एतद्विरुद्धं पृच्छन्त्यां रुद्राण्यां परिषद्भृशम्।
बभूव सर्वा मुदिता श्रोतुं हि परमं हितम्॥ 13-238-42(90849)
महेश्वर उवाच। 13-238-43x(7653)
स्थाने संशयितं देवि शृणु कल्याणि तत्वतः।
गुह्यानां परमं गुह्यं हितानां परमं हितम्॥ 13-238-43(90850)
यथा देवगणा देवि तथा पितृगणाः प्रिये।
दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः॥ 13-238-44(90851)
प्रेतानुद्दिश्य या पूजा क्रियते मानुषैरिह।
तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः॥ 13-238-45(90852)
उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः।
दक्षिणस्यां तथा देवि तुष्यन्ति विविधैर्मखैः॥ 13-238-46(90853)
द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम्।
तयोर्हव्यक्रिया देवान्कव्यमाप्यायते पितॄन्। 13-238-47(90854)
प्रसव्यं मङ्गलैर्द्रव्यैर्हव्यकर्म विधीयते।
अपसव्यममङ्गल्यैः कव्यं चापि विधीयते॥ 13-238-48(90855)
सदेवासुरगन्धर्वाः पितॄनभ्यर्चयन्ति च।
आप्यायन्ते च ते श्राद्धैः पुनराप्याययन्ति तान्॥ 13-238-49(90856)
अनिष्टा च पितॄन्पूर्वं यः क्रियां प्रकरोति चेत्।
रक्षांसि च पिशाचाश्च फलं भोक्ष्यन्ति तस्य तत्॥ 13-238-50(90857)
हव्यकव्यक्रियास्तस्मात्कर्तव्या भुवि मानुषैः।
कर्मक्षेत्रं हि मानुष्यं तदन्यत्र न विद्यते॥ 13-238-51(90858)
कव्येन सन्ततिर्दृष्टा हव्ये भूतिः पृथग्विधाः।
इति ते कथितं देवि देवगुह्यं सनातनम्॥ ॥ 13-238-52(90859)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः॥ 238 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|